वाचस्पत्यम्
श्यामक || न० श्याम + संज्ञायां कन् । १ रोहिषतृणे राजनि० । २ श्यामाके (शामा) धान्यभेदे पु० हेमच० ।
शब्दकल्पद्रुमः
श्यामकं || क्ली (श्याम + संज्ञायां कन् ।)
रोहिष- तृणम् । इति राजनिर्घण्टः ॥ (कृष्णवर्णे, त्रि । यथा, बृहत्सं हितायाम् । ६१ । ८ । “श्यामकपुष्पचिताङ्गो भस्मारुणसन्निभो विडालाक्षः ॥”)
शब्दकल्पद्रुमः
श्यामकः || पुं, (श्यामं तद्वर्णं अकतीति । अक गतौ + अण् । शकन्ध्वादित्वात् साधुः ।)
श्यामाकः । इति हेमचन्द्रः ॥ (शूरस्य पुत्त्रविशेषः । स तु वसु- देवस्य भ्राता । इति भागवतम् । ९ । २४ । २९ ॥)