संस्कृत-शब्दकोशः

श्यामपत्र श्यामलचूडा

श्यामल

वाचस्पत्यम्

श्यामल ||‍ पु० श्यामवर्णं लाति ला—क । १ पिप्पले २ कृष्ण- वर्णयुते त्रि० मेदि० । ३ अश्वगन्धायां ४ कटभ्यां ५ जम्ब्वां ६ कस्तूर्य्याञ्च स्त्री राजनि० । ७ श्यामवर्णे पु० अमरः ।


शब्दकल्पद्रुमः

श्यामलः || पुं, (श्यामवर्णः अस्त्यस्येति । श्याम + “सिध्मादिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।)
कृष्ण- वर्णः । पिप्पलः । इतिमेदिनी ॥ कृष्णगुणवति, त्रि । इत्यमरः ॥ (यथा मुकुन्दमालायाम् । २ । “जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥”)



Correction: