संस्कृत-शब्दकोशः

श्यामलचूडा श्यामला

श्यामलता

वाचस्पत्यम्

श्यामलता ||‍ स्त्री कर्म० । १ स्वनामख्याते शारिवौषधौ श- ब्दर० । श्यामलस्य भावः तल् । २ कृष्णवर्णे ३ हरिद्वर्णे च


शब्दकल्पद्रुमः

श्यामलता || स्त्री (श्यामा लता ।)
स्वनामख्यात- लता । तत्पर्य्यायः । यथा, शब्दरत्नावल्याम् । “गोपी गोपा गोपवल्ली सारिवोल्पलसारिवा । अनन्ता शारिवा श्यामा ह्यष्टौ श्यामलताह्वये ॥” अपि च । “कालपेषी महाश्यामा सुभद्रोत्पलसारिवा । दीर्घमूला च पालिन्दी मसूरविदला च सा ॥” इति रत्नमाला ॥ राजनिर्घण्टोक्तपर्य्यायगुणौ सारिवाशब्दे द्रष्टव्यौ



Correction: