शब्दकल्पद्रुमः
श्यामला || स्त्री पार्व्वती । श्यामं श्रीकृष्णं लाति ददातीति व्युत्पत्तिसिद्धा । इति केचित् ॥ अश्व- गन्धा । कटभी । जम्बूः । कस्तूरी । इति राज- निर्घण्टः ॥