संस्कृत-शब्दकोशः

श्यामाक श्यामाम्ली

श्यामाङ्ग

वाचस्पत्यम्

श्यामाङ्ग ||‍ पु० श्यामं हरिद्वर्णमङ्गमस्य । १ बुधग्रहे त्रिका० । २ कृष्णदेहे त्रि० स्त्रियां ङीष् । “श्यामाङ्गीं विगता- म्बराम्” तन्त्रम् ।


शब्दकल्पद्रुमः

श्यामाङ्गः || पुं, (श्यामानि अङ्गानि यस्य । बुध- ग्रहः । इतित्रिकाण्डशेषः ॥ कृष्णकलेवरे, त्रि यथा, —
“श्यामाङ्गीं शशिशेखरां निजकरैर्दानञ्च रक्तो- त्पलं रत्नाढ्यं चसकं परं भयहरं संबिभ्रतीं शाश्व- तीम् । मुक्ताहारलसत्पयोधरनतां नेत्रत्रयोल्लालिनीं वन्देऽहं सुरपूजितां हरबधूं रक्तारविन्द- स्थिताम् ॥” इति तन्त्रसारे भुवनेश्वरीध्यानम् ॥



Correction: