वाचस्पत्यम्
श्याल || पु० श्यै—कालन । पत्नीभातरि अमरः । स्वार्थे ठक् । श्यालिकोऽप्यत्र ।
शब्दकल्पद्रुमः
श्यालः || पुं, (श्यायते नर्म्मार्थं प्राप्यतेऽसौ इति । श्यै + बाहुलकात् कालन् ।)
पत्नीभ्राता । इत्यमरः ॥ शाला इति भाषा ॥ (यथा, गीता- याम् । १ । ३४ । “मातुलाः श्वशुराः पौत्त्राः श्यालाः सम्बन्धिन- स्तथा । एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ॥”)
तत्पर्य्यायः । वाक्कीरः २ श्यालिकः ३ । इति शब्दरत्नावली ॥ श्वशुर्य्यः ४ आत्मवीरः । इति जटाधरः ॥ तन्मरणे एकरात्राशौचं यथा । आचार्य्यपत्रीपुत्त्रोपाध्यायमातुलश्वशुरश्वशुर्य्य- सहाध्यायिशिष्येष्वे करात्रेणेति । इति शुद्धि- तत्त्वम् ॥ दन्त्यसादिश्च । (भगिनीपतिः । यथा, ब्रह्मवैवर्त्ते । १ । १० । १५१ । “भग्नी पुत्त्रो भागिनेयो भ्रातृपुत्त्रश्च भ्रातृजः श्यालस्तु भगिनीकान्तो भगिनीपतिरेव ॥”)