संस्कृत-शब्दकोशः

श्यालिका श्यावदत्

श्याव

वाचस्पत्यम्

श्याव ||‍ पु० श्यै—वन् । १ कृष्णपीतमिश्रवर्णे २ तद्वति त्रि० अमरः


शब्दकल्पद्रुमः

श्यावः || पुं, (श्यै + बाहुलकात् वः ।)
कपिशः । इत्यमरः ॥ स तु कृष्णपीतमिश्रवर्णः । इति भरतः ॥ तद्युक्ते, त्रि ॥ (यथा बृहत्संहि- तायाम् । ४ । २९ । “श्यावतनुः स्फुटितः स्फुरणो वा क्षुत्समरामयचौरभयाय ॥”)



Correction: