वाचस्पत्यम्
श्रक || सर्पणे भ्वा० आ० सक० सेट् इदित् । श्रङ्गति अश्रङ्गीत् ।
शब्दकल्पद्रुमः
श्रक || इ ङ सर्पे इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) रेफयुक्ताद्यः । इ, श्रङ्क्यते ङ, श्रङ्कते । सर्पो गतिः । इति दुर्गादासः ॥