वाचस्पत्यम्
श्यो(णा)माक || पु० श्ये—ओना(णा)क । (शोणा) क्षुपेभेदे । “श्योनाको दीपनः पाके कटुकस्तुवरो हिमः । ग्राही तिक्तोऽनिमलेष्मपित्तकासामनाशनः । कटु तस्य फलं बालं रुक्षं वातकफापहम् । हृद्यं कषायं मधुरं रोचनं लघु दीपनम् । गुल्मार्शःकृमिहृत् प्रोक्तं गुरुवातप्रको- पणम्” भावप्र० ।