वाचस्पत्यम्
श्रण || दाने चु० उभ० सक० सेट् । श्राणयति ते अशिश्रणत् त ।
वाचस्पत्यम्
श्रण || दाने भ्वा० पर० सक० सेट् । श्रणति अश्राणीत् अश्रणीत् मित् घटादि० श्रणयति ।
शब्दकल्पद्रुमः
श्रण || कन्दाने । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।)
क, श्राणयति । स्वमते अस्यञ्यङि ह्नस्वविकल्पनेऽप्यष्टमस्वरानुबन्धा- भावोऽन्ये षामनुरोधात् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
श्रण || म दाने । इति कविकल्पद्रुमः ॥ (भ्वा० पर० सक०-सेट् । तालव्यादी रेफयुक्तः । म, श्रण- यति । इति दुर्गादासः ॥ श्रत्, व्य, श्रद्वा । इति मुग्धबोधटीकायां दुर्गा- दासः ॥ (सत्यम् । इति निघण्टुः । ३ । १० ॥)