संस्कृत-शब्दकोशः

श्रद्धावत् श्रन्थन

श्रन्थ

वाचस्पत्यम्

श्रन्थ ||‍ ग्रन्थने बधे च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । श्रन्थयति-ते श्रन्थति अशश्रन्थत् त अश्रन्थीत् ।


वाचस्पत्यम्

श्रन्थ ||‍ पु० श्रन्थ—भावे घञ् । १ खथने कर्त्तरि अच् । सर्वसी- वनकर्त्तरि २ विष्णौ त्रिका० ।


वाचस्पत्यम्

श्रन्थ ||‍ माचने प्रतिहर्षे च क्र्या० प० सक० सेट् । श्रथ्नाति अश्रन्थीत्


शब्दकल्पद्रुमः

श्रन्थ || कि दर्भे । वधे । इति कविकल्पद्रुमः ॥ (चुरा०-पक्षे भ्वा०-सक०-सेट् ।)
कि, श्रन्थ- यति श्रन्थति । दर्भो ग्रन्थनम् । इति दुर्गा- दासः ॥


शब्दकल्पद्रुमः

श्रन्थ || ग मोक्षे । प्रतिहृषि । इति कविकल्पद्रुमः ॥ (क्र्या०-पर०-सक०-सेट् ।)
ग, श्रथ्नाति वत्सं लोकः मोचयतीत्यर्थः । श्रथ्नाति शिशुं लोकः पुनः पुनर्हर्षयति इत्यर्थः । शश्रन्थ । इति दुर्गा- दासः ॥


शब्दकल्पद्रुमः

श्रन्थः || पुं, (श्रथ्नाति मोचयति भक्तान् संसारा- दिति । श्रन्थ + अच् ।)
विष्णुः । इति त्रिकाण्ड- शेषः ॥ (श्रन्थ + भावे घञ् ।)
श्रन्थधात्वर्थो- ऽप्यत्र ॥



Correction: