शब्दकल्पद्रुमः
श्रयणं || क्ली (श्रि + ल्युट् ।) आश्रयः । तत्पर्य्यायः श्रायः २ । इत्यमरः ॥ (यथा, भागवते । ८ । ९ । २८ । “तत्रामृतं सुरगणाः फलमञ्जसापु- र्यत्पादपङ्कजरजःश्रयणान्न दत्याः ॥”)