वाचस्पत्यम्
श्राण || त्रि० श्रा—क्त । १ घृतादिभिन्ने पक्वे मांसादौ जटा० । २ यवाग्वां स्त्री अमरः ।
शब्दकल्पद्रुमः
श्राणं || त्रि (श्रा + क्तः ।) पक्वम् । इति मेदिनी ॥ घृतदुग्धजलभिन्नपक्वद्रव्यम् । इति जटाधरः ॥