वाचस्पत्यम्
श्रान्त || त्रि० श्रम—क्त । १ श्रमयुक्ते २ शान्ते ३ जितेन्द्रिये च हेमच० । भाव क्त । ४ श्रमेन०
शब्दकल्पद्रुमः
श्रान्तः || पुं, (श्रम + क्तः ।)
शान्तः । जितेन्द्रियः । इति हेमचन्द्रः ॥ श्रमयुक्ते, त्रि । श्रम तपःखेदयोः इत्यस्मात् क्तप्रत्ययेन निष्पन्नः । यथा, —
“सखि मत्प्राणनाथन्तु साधयन्ती निरन्तरम् । अतिश्रान्तासि सद्भावस्नेहयोरियमौचिती ॥” इति काव्यचन्द्रिका ॥