वाचस्पत्यम्
श्राम || पु० श्रम—अच् । १ कःले २ मण्डपे ३ मासे च मेदि० ।
वाचस्पत्यम्
श्राम || मन्त्रणे अ० चु० लभ० सक० सेट् । श्रामयति ते अशश्रामत् त ।
शब्दकल्पद्रुमः
श्राम || त् क मन्त्रे । इति कविकल्पद्रुमः ॥ (अदन्त- चुरा०-पर०-सक०-सेट् ।)
अशश्रामत् । मन्त्रो- ऽभिमुखीकरणम् । गुप्तोक्तिरित्येके । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
श्रामः || पुं, (श्रामयतीति । श्राम + अच् ।)
मासः । मण्डपः । कालः । इति मेदिनी ॥