वाचस्पत्यम्
श्रावण || पु० श्रवणेन युक्ता षौर्णमासी श्रावणी सास्मित् मासे अण । वैशाखादिषु चतुर्थे श्रावणीयुक्ते चान्द्रे १ मासे २ तथाभूते पक्षे श्रवणनक्षत्रेण पर्वान्तकाले उदयास्तसम्ब- न्धात् वार्हपत्ये ३ वर्षभेदे च । गुरुवर्षशब्दे २६१९ पृ० दृश्यम् उपचारात् कर्कटस्थरविके सौरे ४ मासे ५ पाषण्डे च मेदि० । श्रवणेन कर्णेन निर्वृत्तः अण् । ६ कर्ण- साध्ये प्रत्यक्षभेदे श्रवणनक्षत्रेण युक्ता पौर्णमासी अण् ङीप् । ७ चान्द्रश्रावणमासीयपौर्णमांस्यां स्त्री । सा च (थुलकुडि) ८ वृक्षभेदे राजनि० । ९ दध्यालीवृक्षे मेदि० टाप् । १० मुण्डतिकावृक्षे भावप्र० ङीप् । “मुण्डि- तिका कटुः पाके वीर्य्योष्णा मधुरा लघुः । मेध्याग- ण्डापचीकृच्छ्र कृमियोन्यर्त्तिपाण्डुनुत् । श्लीपदारुच्या- पस्मारप्लीहमेदोगुदार्त्तिहृत् । महामुण्डी च तत्तुल्या गुणैरुक्ता महर्षिभिः” भावप्र० ।
शब्दकल्पद्रुमः
श्रावणः || पुं, (श्रवणेनाचरति न तु कार्य्येणेति । श्रवण + अण् । पाषण्डः । इति मेदिनी ॥ (श्रवणेन गृह्यते इति । श्रवण + “शेषे ।” ४ । २ । ९२ । इत्यण् । शब्दः । इति काशिका ॥)
वैगाखादि-द्वादशमासान्तर्गत-चतुर्थ-मासः । श्रवणानक्षत्रयुक्ता पौर्णमासी श्रावणी सा यत्र मासे सः । (श्रवणा + अण् ।)
तत्पर्य्यायः । नभाः २ श्रावणिकः ३ । इत्यमरः ॥ नभः ४ । इति शब्दरत्नावली । स च द्विविधः सौर- श्चान्द्रश्च । कर्क्कटस्थरविको मामः सौर- श्रावणः । कर्कटस्थरविप्रारब्धशुक्लप्रतिपदादि- दर्शान्तो मासश्चान्द्रश्रावणः । चान्द्रोऽपि द्विविधो मुख्यो गौणश्च । तत्र मुख्यचान्द्रश्राव- णोयकृष्णप्रतिपदादिपौर्णमास्यन्तो मासो गौण- चान्द्रः श्रावणः । मुख्यलक्षर्ण प्रागेवोक्तम् । इति मलमासतत्त्वम् ॥ * ॥
तत्र जातफलम् । “लोकप्रमिद्धो धनवान् वदान्यः सुहृत्कलत्रात्मजदासयुक्तः । आज्ञाकरा यस्य जनस्य सर्व्वे स श्रावणाख्ये सुतरां प्रसूतः ॥” अथ श्रावणकृत्यम् । तत्र देवीपुराणम् । “सुप्ते जनार्द्दने कृष्णे पञ्चम्यां भवनाङ्गने । पूजयेन्मनसा देवीं स्नुहीविटपसंस्थिताम् ॥” स्नु ही सिजवृक्षः । “देवीं संपूज्य नत्वा च न सर्पभयमाप्नुयात् । पञ्चम्यां पूजयेन्नागाननन्ताद्यान् महोरगान् । क्षीरं सर्पिश्च नैवेद्यं देयं सर्पविषापहम् ॥” गारुडे । “अनन्तं वासुकिं शङ्खं पद्मं कम्बलमेव च । तथा कर्कोटकं नागं धृतराष्ट्रञ्च शङ्खकम् ॥ कालीयं तक्षकञ्चापि पिङ्गलं मणिभद्रकम् । यजेत्तानसितान्नागान दष्टमुक्तो दिवं ब्रजेत् ॥” पुराणान्तरेऽपि । अनन्तो वासुकिः पद्मो महापद्मोऽथ तक्षकः । कुलीरः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकी- र्त्तिताः ॥” पाद्मे । शेषः पद्मो महापद्मः कुलीरः शङ्खपालकः । वासुकिस्तक्षकश्चैव कालीयो मणिभद्रकः । ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ ॥” रत्नाकरे । “पिचुमर्द्दस्य पत्राणि स्थापयेद्भवनोदरे । स्वयञ्चापि तदश्नीयात् ब्राह्लणानपि भोजयेत् ॥” पिचुमर्द्दस्य निम्बस्य ॥ * ॥
तत्र प्रयोगः । हरिशयनानन्तरं गौणचान्द्रेण श्रावणकृष्ण- नवम्यां कृतस्नानादिरुदङ्मुखः । अद्य श्रावणे मासि कृष्णे पक्षे पञ्चम्यां तिथौ अमुकगोत्रः श्रीअमुकदेवशर्म्मा सर्पभयाभावकामो मनसा- देवीपूजामहं करिष्ये । इति सङ्कल्प्य स्नुही- वृक्षे पूजयेत् । तदभावे घटे जले वा न्यासा- दिकं कृत्वा देवीमम्बेति ध्यात्वा मनसादेवि इहागच्छ इहावाह्य एतत् पाद्यं ॐ मनसा- देव्यै नमः । इत्यनेन यथाशक्ति गन्धपुष्पधूप- दीपनैवेद्यानि दद्यात् । ततोऽनन्तादीन् नागान् पूजयेत् तत्र क्षीरसर्पिर्नैवेद्यं प्रधानम् । अनन्तादिकं पाद्यादिभिः संपूज्य । ॐ योऽसावनन्तरूपेण ब्रह्माण्डं सचराचरम् । पुष्पवद्धारयेन्मूध्नि तस्मै नित्यं नमो नमः ॥” इत्यनेन त्रिः पूजयेत् । एवं प्रणवादिनमोऽन्तेन स्वस्वनाम्ना पूजयेत् । ॐ वासुकय नमः । ॐ शङ्णाय नमः । ॐ कम्बलाय नमः । ॐ कर्को- टकाय नमः । ॐ शङ्खकाय नमः । ॐ काली- याय नमः । ॐ तक्षकाय नमः । ॐ पिङ्गलाय नमः । ॐ महापद्माय नमः । ॐ कुलिकाय नमः । ॐ मणिभद्राय नमः । ॐ धनञ्जयाय नमः । ॐ शेषाय नमः । ॐ ऐरावताय नमः । अशक्तौ गन्धपुष्पाभ्यां पूजयेत् । निम्ब- पत्राणि गृहे स्थापयेत् ब्राह्मणेभ्यो दद्यात् स्वयं भक्षयेच्च । उभयदिने पूर्व्वाह्णे मुहूर्त्तान्यून- पञ्चमीलाभे पूर्व्वदिने पूजा युग्मात् । श्रावण्यां पौर्णमास्यां श्राद्धमावश्यकम् । इति कृत्यतत्त्वम् ॥ श्रवणानक्षत्रसम्बन्धिनि, त्रि ॥