वाचस्पत्यम्
श्रीकण्ठ || पु० श्रीः शोभा काण्ठेऽप्य । १ शिवे अमरः सर्वतः धेतत्य कण्ठे कृष्णवर्णविषसन्निकर्षे शोभाधिक्यात्तथात्वम् । २ ह- स्तिनापुरस्य उत्तरपश्चिमस्थे कुरुजाङ्गलाख्ये देशे च हेमच०
शब्दकल्पद्रुमः
श्रीकण्ठः || पुं, (श्रीः शोभा कण्ठेयस्य ।)
शिवः । इत्यमरः ॥ कुरुजाङ्गलदेशः । स तु हस्तिना- पुरस्य उत्तरपश्चिमे वर्त्तते । इति हेमचन्द्रः ॥ (पक्षिविशेषः । यथा, बृहत्संहितायाम् । ८६ । ३८ । “स्त्रीसंज्ञा भासभषककपिश्रीकर्णछिक्कराः । शिखिश्रीकण्ठपिप्पीकरुरुश्येनश्च दक्षिणाः ॥”)