वाचस्पत्यम्
श्रीकारिन् || पु० श्रियं करोति कृ—णिनि । जङ्घाले महाजवे १ मृगभेदे राजनि० । २ शोभाकारिणि त्रि० स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
श्रीकारी || [न्] पुं, (श्रियं शोभां करोतीति । कृ + णिनिः ।)
मृगविशेषः । तत्पर्य्यायः । शिखि- यूपः २ कुरङ्गः ३ महायवः ४ यवनः ५ वेगि- हरिणः ६ जङ्घालः ७ जाङ्घिकाह्वयः ८ । अस्य मांसगुणाः । लघुत्वम् । हृद्यत्वम् । बलप्रदत्वञ्च इति राजनिर्घण्टः ॥