वाचस्पत्यम्
श्रीगर्भ || पु० श्रीर्गर्भेऽस्य । १ विष्णौ त्रिका० २ खङ्गेच “श्रीगर्भो विजयश्चैव” इति खङ्गनामाष्टकम् ।
शब्दकल्पद्रुमः
श्रीगर्भः || पुं, (श्रीर्गर्भेऽस्य ।)
विष्णुः । इति त्रिकाण्ड- शेषः ॥ खङ्गः । यथा, —
“असिर्व्विषशनः खङ्गस्तीक्ष्णधारो दुरासदः । श्रोगर्भो विनयश्चैव धर्म्मपाल नमोऽस्तु ते ॥” इति तिथ्यादितत्त्वम् ॥