वाचस्पत्यम्
श्रीताल || पु० श्रीयुक्तस्तालः शाक० । तालवृक्षतुल्ये वृक्षभेदे राजनि० ।
शब्दकल्पद्रुमः
श्रीतालः || पुं, (श्रीयुक्तस्तालः ।)
तालवृक्षसद्दृश- वृक्षविशेषः । तत्पर्य्यायः । मृदुतालः २ लक्ष्मी- तालः ३ मृदुच्छदः ४ विशालपत्रः ५ लेखार्हः ६ मसीलेख्यदलः ७ शिरालपत्रकः ८ याम्योद्- भूतः । अस्य गुणाः । मधुरत्वम् । शीतत्वम् । ईषत् कषायत्वम् । पित्तनाशित्वम् । कफकारि- त्वम् । ईषद्वातप्रकोपणत्वञ्च । इति राज- निर्घण्टः ॥