वाचस्पत्यम्
श्रीधर || पु० श्रियं धरति धृ—अच् । १ विष्णौ “अतिक्षुद्रं द्वि- चक्रञ्च वनमालाविभूषितम् । श्रीधरं देवि! विज्ञेयम्” इत्युक्ते २ शालग्राममूर्त्तिभेदे न० ।
शब्दकल्पद्रुमः
श्रीधरः || पुं, (धरतीति । धृ + अच् । श्रिया धरः ।)
विष्णुः । (यथा, मुकुन्दमालायाम् । ९ । “मा भैर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातना नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः । आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥”)
भूतार्हद्भेदः । इति हेमचन्द्रः ॥ शालग्राम- चक्रे, क्ली, । यथा, —
“अतिक्षुद्रं द्विचक्रन्तु वनमालाविभूषितम् । श्रीधरं देवि विज्ञेयं श्रीप्रदं गृहिणां सदा ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १९ अध्यायः ॥