संस्कृत-शब्दकोशः

श्रीनन्दन श्रीनिवाम

श्रीनिकेतन

वाचस्पत्यम्

श्रीनिकेतन ||‍ पु० श्रियं निकेतयति नितरां वासयति नि + कित—णिच्—ल्यु । १ विष्णौ शब्दच० ६ त० । २ श्रीलक्ष्मी निवासे ।


शब्दकल्पद्रुमः

श्रीनिकेतनः || पुं, (श्रियं निकेतयति वासयतीति । नि + कित + णिच् + ल्युः ।)
विष्णुः । इति शब्दरत्नावली ॥ (यथा, भागवते । ९ । १८ । १३ । “भगवानपि विश्वात्मा पावनः श्रीनिकेतनः ॥” श्रियः आश्रयस्थाने, त्रि । यथा, भागवते । ३ । ३ । २० । “स्निग्धस्मितावलोकेन वाचा पीयूषकल्पया । चरित्रे णानवद्येन श्रीनिकेतेन चात्मना ॥”)



Correction: