वाचस्पत्यम्
श्रीपथ || पु० श्रीयुक्तः पन्थाः अच् समा० शाक० । राजपथे हारा० ।
शब्दकल्पद्रुमः
श्रीपथः || पुं, (श्रियः पन्थाः । “ऋक्पूरब्धूःपथा- मानक्षे ।” ५ । ४ । ७४ । इति अः ।) राज- पथः । इति हेमचन्द्रः ॥