वाचस्पत्यम्
श्रीपर्णी || स्त्री श्रीयुक्तानि पर्णान्यस्याः ङीप् । १ गाम्भा- रीवृक्षे अमरः । २ कट्फलवृक्षे मेदि० । ३ शाल्मलीवृक्षे ४ हठवृक्षे हेमच० । ५ अग्निमन्थवृक्षे राजनि० ।
शब्दकल्पद्रुमः
श्रीपर्णी || स्त्री (श्रीयुक्तानि पर्णानि यस्याः । ङीष्)
गम्भारीवृक्षः । इत्यमरः । कट्फलवृक्षः । इति मेदिनी ॥ शाल्मलीवृक्षः । हठवृक्षः । इति हेमचन्द्रः । अग्निमन्थवृक्षः । इति राज- निर्घण्टः ॥