शब्दकल्पद्रुमः
श्रीफलिका || स्त्री (श्रीफला + स्वार्थे कन् । टापि अत इत्वम् ।) क्षुद्रकारवेल्ली । महानीलीवृक्षः । इति राजनिर्घण्टः ॥