संस्कृत-शब्दकोशः

श्रीमुख श्रीयुक्त

श्रीमूर्ति

वाचस्पत्यम्

श्रीमूर्त्ति ||‍ स्मी श्रीपूर्वककथयोग्या मूर्त्तिः । देवताप्रतिमायां राजनि० । विष्णोर्मूर्चिभेदाश्चतुर्विंशति मूर्त्तिशब्दे दृश्या । श्रीमूर्त्तयश्चाष्टविधाः भाग० ११ स्कन्दे दर्शिता यथा “शैली दारुमयी लौ ही लेप्या लेख्या च सैकती । मनो- मयी मणिमयी प्रतिमाष्टबिधा मता । चलाचलेति द्वि- विधा प्रतिष्ठा जीवमन्दिरम् । उद्वासावाहने न स्तः स्थिरायामुद्धवार्चने । अस्थिरायां विकल्पः स्यात् स्य ण्डिले तु भवेत् द्वयम् । स्वपनं त्वविलेप्यायामन्यत्र परि- मार्जनम् । गोपालमन्त्राद्दिष्टत्वात् तच्छ्रीमूर्त्तिरपेक्षिता । तथापि वैष्णवप्रीत्यै लेख्याः श्रीमूर्त्तयोऽखिलाः” ।


शब्दकल्पद्रुमः

श्रीमूर्त्तिः || स्त्री (श्रीयुक्ता मूर्त्तिः ।)
देवविग्रहः । विष्णुप्रतिमा । यथा । अथ श्रीमूर्त्तयः । एका- दशस्कन्धे । “शैली दारुमयी लौही लेप्या लेख्या च मैकता मनोमयी मणिमयी प्रतिमाष्टविधा मता ॥ चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् । उद्वासावाहने न स्तः स्थिरायामुद्धवार्च्चने ॥ अस्थिरायां विकल्यः स्यात् स्थण्डिले तु भवेत् द्वयम् । स्नपनं त्वविलेप्यायामन्यत्र परिमार्ज्जनम् ॥ गोपालमन्त्रोद्दिष्टत्वात् तच्छ्रीमूर्त्तिरपेक्षिता । तथापि वैष्णवप्रीत्यै लेख्याः श्रीमूर्त्तयोऽखिलाः ॥” अथ श्रीमूर्त्तिलक्षणानि । हयशीर्षपञ्चरात्रे । भगवच्छ्रीहयशीर्षब्रह्मसंवादे । “आदिमूर्त्तिर्वासुदेवः सङ्कर्षणमथासृजत् । चतुर्मुर्त्तिः परं प्रोक्तं एकैको भिद्यते त्रिधा ॥ केशवादिप्रभेदेन मूर्त्तिद्वादशकं स्मृतम् । पङ्कजं दक्षिणे दद्यात् पाञ्चजन्यं तथोपरि ॥ वामोपरि गदा यस्य चक्रं चाधोव्यवस्थितम् । आदिमूर्त्तेस्तु भेदोऽयं केशवेति प्रकीर्त्त्यते ॥ १ ॥ अधरोत्तरभावेन कृतमेतत्तु यत्र वै । नारायणाख्या सा मूर्त्तिः स्थापिता भुक्ति- मुक्तिदा ॥ २ ॥ सव्याधः पङ्कजं यस्य पाञ्चजन्यं तथोपरि । दक्षिणोर्द्धे गदा यस्य चक्रं चाधोव्यवस्थितम् ॥ आदिमूर्त्तेस्तु भेदोऽयं माधवेति प्रकीर्त्त्यते ॥ ३ ॥ दक्षिणाधःस्थितं चक्रं गदा यस्योपरिस्थिता ॥ वामोर्द्ध्वसंस्थितं पद्मं शङ्खं चाधोव्यवस्थितम् । सङ्कर्षणस्य भेदोऽयं गोविन्देति प्रकीर्त्त्यते ॥ ४ ॥ दक्षिणोपरि पद्मं तु गदा चाधोव्यवस्थिता । सङ्कर्षणस्य भेदोऽयं विष्णुरित्यभिशब्द्यते ॥ ५ ॥ दक्षिणोपरि शङ्खञ्च चक्रं चाधः प्रदृश्यते । वामोपरि तथा पद्मं गदा चाधः प्रदृश्यते । मधुसूदननामायं भेदः सङ्कर्षणस्य च ॥ ६ ॥ त्रिविक्रममूर्त्तिमाह । दक्षिणोर्द्धे गदा यस्य पङ्कजं चाप्यधः स्थितम् । वामोर्द्धे संस्थितं चक्रमधः शङ्खं प्रदृश्यते । ब्रह्माण्डगं वामपादं दक्षिणं शेषपृष्ठगम् ॥ ७ ॥ श्रोवामनमूर्त्तिमाह । बलिवञ्चनसयुक्त वामनं चाप्यधःस्थितम् । वामोर्द्धे कौमोदी यस्य पुण्डरीकमधास्थितम् ॥ दक्षिणोर्द्धं सहस्रारं पाञ्चजन्यमधः स्थितम् । सप्ततालप्रमाणेन वामनं कारयेत् सदा ॥ ८ ॥ ऊर्द्धं दक्षिणतश्चक्रमधः पद्मं व्यवस्थितम् । वामोर्द्धे कौमोदी यस्य पाञ्चजन्यमधःस्थितम् ॥ पद्मा पद्मकरा वामे पार्श्वे तस्य व्यवस्थिता । स्थितो वाप्युपविष्टो वा सानुरागविलासवान् ॥ प्रद्युम्नस्य हि भेदोऽयं श्रीधरेति प्रकीर्त्त्यते ॥ ९ ॥ दक्षिणोर्द्धं महाचक्रं कौमोदी तदधःस्थिता ॥ वामोर्द्ध नलिनं यस्य अधः शङ्खं विराजते । हृषीकेशेति विज्ञेयः स्थापितः सर्व्वकामदः ॥ १० दक्षिणोर्द्धे पुण्डरीकं पाञ्चजन्यमधस्तथा । वामोर्द्धे संस्थितं चक्रं कौमोदी तदधःस्थिता ॥ पद्मनाभेति सा मूर्त्तिःस्थापिता मोक्षदायिनी ११ दक्षिणोर्द्धे पाञ्चजन्यमधस्तात्तु कुशेशयम् ॥ सव्योर्द्धं कौमोदी देवी हेतिराजमधःस्थितम् । अनिरुद्धस्य भेदोऽयं दामोदर इति स्थितः ॥ १२ ॥ एतेषान्तु स्त्रियौ कार्य्ये पद्मवीणाधरे शुभे । इति क्रमेण मार्गादिमासाधिपाः केशवादयो द्वादश ॥ * ॥
अथ सिद्धार्थसंहितायां चतु- र्व्विशतिमूर्त्तयः । “वामुदेवो गदाशङ्खचक्रपद्मधरो मतः । १ । पद्मं शङ्खं तथा चक्रं गदां वहति केशवः ॥ २ ॥ शङ्खं पद्मं गदां चक्रं धत्ते नारायणः सदा । ३ । गदां चक्रं तथा शङ्खं पद्मं वहति माधवः ॥ ४ ॥ चक्रं पद्मं तथा शङ्खं गदाञ्च पुरुषोत्तमः । ५ । पद्मं कौमदकीं शङ्खं चक्रं धत्तेऽप्यधोक्षजः ॥ ६ ॥ सङ्कर्षणो गदाशङ्खपद्मचक्रधरः स्मृतः । ७ । चक्रं गदां पद्मशङ्खौ गोविन्दो धरते भुजे ॥ ८ ॥ गदां पद्मं तथा शङ्खं चक्रं विष्णुर्विभर्त्तियः । ९ । चक्रं शङ्खं तथा पद्मं गदाञ्च मधुसूदनः ॥ १० ॥ गदां सरोजं चक्रञ्च शङ्खं धत्तेऽच्युतः सदा । ११ । शङ्खं कौमोदकीं चक्रमुपेन्द्रः पद्ममुद्वहेत् ॥ १२ ॥ शङ्खचक्रगदापद्मधरः प्रद्युम्न उच्यते । १३ । पद्मं कौमोदकीं चक्रं शङ्खं धत्ते त्रिविक्रमः ॥ १४ ॥ शङ्खं चक्रं गदां पद्मं वामनो वहते सदा । १५ । पद्मं चक्रं गदां शङ्खं श्रीधरो वहते भुजे ॥ १६ ॥ चक्रं पद्मं गदां शङ्खं नरसिंहो बिभर्त्ति यः । १७ । पद्मं सुदर्शनं शङ्खं गदां धत्ते जनार्द्दनः ॥ १८ ॥ अनिरुद्धश्चक्रगदाशङ्खपद्मलसद्भुजः । १९ । हृशीकेशो गदां चक्रं पद्मं शङ्खञ्च धारयेत् ॥ २० ॥ पद्मनाभो वहेत् शङ्खं पद्मं चक्रं गदां तथा । २१ । पद्मं चक्रं गदाशङ्खं धत्ते दामोदरः सदा ॥ २२ ॥ शङ्खं चक्रं सरोजञ्च गदां वहति यो हरिः । २३ । शङ्ख कौमोदकीं पद्मं चक्रं कृष्णो विभर्त्ति यः ॥ २४ ॥ एताश्च मूर्त्तयो ज्ञेया दक्षिणाधःकरक्रमात् ॥” मत्स्यपुराणे च । “एतदुद्देशतः प्रोक्तं प्रतिमालक्षणं तथा । विस्तरेण न शक्नोति बृहस्पतिरपि द्विजाः ॥” इति । सेवानिष्ठा हरेः श्रीमद्वैष्णवाः पाञ्चरात्रिकाः । प्राकट्यादखिलाङ्गानां श्रीमूर्त्तिं बहु मन्यते ॥ सेव्या निजनिजैरेव मन्त्रैः स्वस्वेऽष्ट मूर्त्तयः । शालग्रामात्मके रूपे नियमो नैष विद्यते ॥ द्विभुजा जलदश्यामा त्रिभङ्को मधुराकृतिः ॥ सेव्या ध्यानानुरूपैव श्रीमूर्त्तिः कृष्णदैवतैः ॥ अन्याश्च विविधाः श्रीमदवतारादिमूर्त्तयः । प्रादुर्भावविधावग्रे लेख्यास्तत्तद्विशेषतः ॥ नित्यकर्म्मप्रसङ्गेऽत्र मूर्त्तिजन्मप्रतिष्ठयोः । विधिर्न्न लेखितुं योग्यः स तु लेखिष्यतेऽग्रतः ॥” इति श्रीहरिभक्तिविलासे १८१ विलासः ॥



Correction: