श्रीरस
श्रीराम
श्रीराग
शब्दकल्पद्रुमः
श्रीरागः || पुं, षड्रागाणां मध्ये तृतीयरागः । इति हलायुधः । अस्य रागिण्यो यथा, —
“गान्धारी देवगान्धारी मालवश्रीश्च सारवी । रामकीर्य्यपि रागिण्यः श्रीरागस्य प्रिया इमाः ॥” इति सङ्गीतदामोदरः ॥ विस्तारस्तु श्रीशब्दे द्रष्टव्यः ॥