संस्कृत-शब्दकोशः

श्रीराम श्रील

श्रीरामनवमी

शब्दकल्पद्रुमः

श्रीरामनवमी || स्त्री (श्रीरामस्य नवमी तज्जन्म दिनत्वात् ।)
चैत्रशुक्लनवमी । सा च श्रीरामस्य जन्मतिथिः ॥ तद्व्रतकथा यथा, —
“पुरैकदा सुखासीन ब्रह्माणं जगतां पतिम् । उवाच सहसागत्य सनकः संजितेन्द्रियः ॥ सनक उवाच । राज्ञा दशरथेनैव राज्ञ्या कोशल्ययापि वा । कस्मात् कर्म्मवशाल्लब्धः पुत्त्रोऽसौ जगतीपतिः । दूर्व्वादलश्यामरामो विस्तार्य्य कथयस्व मे ॥ ब्रह्मोवाच । साधु पृष्टं त्वया वत्म जगतां हितकारकम् । पुरा राजा दशरथः कौशल्या च समाहितौ ॥ जजाप मन्त्रं दुर्गायाः शिवस्य च विशेषतः । तयोर्जपेन तुष्टः सन् शिवः प्रत्यक्षतां गतः ॥ दशरथ उवाच । अद्य मे सफलं जन्म अद्य मे सफलं तपः । अद्य मे सफलं चक्षुर्यतस्त्वमवलोकितः ॥ श्रीशिव उवाच । किन्ते काम्यं महाराज कथयस्व ददामि तत् ॥ दशरथ उवाच । देवदेवाप्यपुत्त्रोऽहमिति दुःखेन दुःखितः । चिरं विचार्य्य मनसा शिवाराधनतत्परः ॥ इति श्रुत्वा महादेवस्तमुवाच दयापरः । कुरु राजन् वंशयज्ञं ततस्ते जगतीपतिः ॥ श्रीरामनामा पुत्त्रोऽसौ कौशल्यायां भविष्यति । इत्युक्त्वा तं महादेवस्तयोरन्तर्हितोऽभवत् ॥ * ॥
इति रुद्रमुखात् श्रुत्वा राजा दशरथः सुखी । ततश्चक्रे वशयज्ञं स देव्या सह तत्परः ॥ ततः काले महाराज्ञी गर्भं धत्ते मनोहरम् चैत्रे मासि सिते पक्षे नवम्यां शोभने दिने । अतिपुण्यसुसंलग्ने जातो रामः स्वयं हरिः । पुनव्वस्वक्षसंयुक्ता सा तिथिः सर्व्वकामदा । श्रीरामनवमी प्रोक्ता कोटिसूर्य्यग्रहाधिका ॥ अस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः । यत्किञ्चित् क्रियते कर्म्म तदक्षयकरं स्मृतम् ॥ उपोषणं जागरणं पितॄनुद्दिश्य तर्पणम् । तस्मिन् दिने तु कत्तव्यब्रह्मप्राप्तिमभीपसुभिः । तस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः जपेदेकान्त आसीनो यावत् स्याद्दशमौदिनम् ॥ तेनैव स्यात् पुरश्चर्य्या दशम्यां भोजयेद्धिजान् । भक्ष्यभोज्यैर्बहुविधैर्भक्त्या दद्याच्च दक्षिणाम् । कृतकृत्यो भवेत्तेन सद्यो रामः प्रसीदति ॥ यस्तु रामनवम्यान्तु भुङ्क्ते मर्त्यो विमूढधीः । कुम्भोपाकेषु घोरेषु पच्यते नात्र संशयः ॥ कुर्य्याद्रामनवम्यां य उपोषणमतन्द्रितः । न शेते मातृजठरे स्वयं रामो भवेत्तु सः ॥ श्रीरामनवमी नाम पुण्यात् पुण्यतमय्रतम् । इति श्रुत्वा सुसंतुष्टः सनकः पुनरब्रवीत् । विधिना केन कर्त्तव्यं वद मे कमलोद्भव ॥ * ॥
ब्रह्मोवाच । व्रतपूर्व्वदिने स्नात्वा सकृद्भुक्त्वा निरामिषम् । त्यक्त्वा च योषिच्छयनं शयीत स्थण्डिले कुशे ॥ ब्राह्मे मुहूर्त्ते चोत्थाय कृत्वा प्रातः क्रियां ततः । प्रातः स्नात्वा शुचिर्भूत्वा सङ्कल्पं विधिनाचरेत् प्रतिमायां घटे वापि पटे वा यन्त्रतोऽपि वा । शालग्रामशिलायान्तु तुलसीदलकल्पिता ॥ पूजा श्रीरामचन्द्रस्य कोटिकोटिगुणाधिका । कौशल्या पूजनीयादौ राजा चैव ततः परम् ॥ षडङ्गं पूजयेत्तत्र लक्ष्मणादीन् विशेषतः । पूजयेत् परया भक्त्या परिवारं ततः परम् ॥ ततो ग्रहांश्च दिक्पालांस्तदस्त्राणि च पूजयेत् । उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौ लग्ने कर्क्कटके पुनर्व्वसुदिने मेषं गते पूषणि । निर्द्दग्धुं निखिलाः पलाशसमिधो मध्यादयो- ध्यारणे- राविर्भूतमभूदपूर्व्वविभवं यत्किञ्चिदेकं महः ॥ ततो वाद्यादिकं कृत्वा दद्यादर्घ्यं विशेषतः । मूलमन्त्रेण दद्याद्वै भक्त्या पुष्पाञ्जलित्रयम् ॥ एवमष्टसु यामेषु अष्टधा च जपेद्व्रती । इतिहासकथां श्रुत्वा गीतनृत्यैर्निशां नयेत् ॥ ततः परदिने प्रातः स्नानं कृत्वा विधानतः । रामं दूर्व्वादलश्यामं भक्त्या भक्त्या प्रपूजयेत् । दक्षिणां विधिवद्दत्त्वा ततोऽच्छिद्रावधारयेत् । भोजयित्वा ततो विप्रान् स्वयं पारणमाचरेत् । य इदं शृणुयान्नित्यं पुण्याहे च विशेषतः । बहुपुत्त्रो धनाढ्यश्च अन्ते ब्रह्मत्वमाप्नुयात् ॥ संग्रामे वैरिणो हन्ता सर्वत्र विजयी भवेत् राजद्वारे महाघोरे संग्रामे शत्रुसङ्क ले ॥ दूर्व्वादलश्यामरामस्तस्य रक्षाकरो भवेत् ॥ भक्त्या यः शृणुयाद्रोगी उल्लाषः स भवेत् सदा बन्ध्या पुत्त्रवती सा च पतिचित्तानुवर्त्तिनी । सपत्नीदर्पदलनी सा भवेन्नात्र संशयः ॥ दरिद्रो लभते वित्तं भीतो भवति निर्भयः । यज्ञदानतपांस्यस्य तीर्थस्नानादिकाः क्रियाः ॥ न रामनवमी-नाम-व्रतस्यैककला-समाः । यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ॥ शिष्याय भक्तियुक्ताय शुचयेऽपि प्रदापयेत् । शठाय परतन्त्राय विकत्थनरताय च ॥ भ्रमादपि न वक्तव्यं यदीच्छेदात्मनो हितम् । मयैतत् कथितं वत्स तव स्नेहाद्व्रतोत्तमम् ॥ य इदं कुरुते भक्त्या श्रीरामनवमीव्रतम् । सर्व्वपापप्रमुक्तश्च अन्ते ब्रह्मत्वमाप्नुयात् ॥” इति श्रीरामभक्तितरङ्गिण्यां ब्रह्मसनकसंवादे श्रीरामनवमीव्रतकथा समाप्ता ॥



Correction: