वाचस्पत्यम्
श्रील || त्रि० श्री + अस्त्यर्थे लच् । १ शोभायुक्तो २ सम्पदादियुक्ते च अमरः ।
शब्दकल्पद्रुमः
श्रीलः || त्रि (श्रीर्विद्यतेऽस्येति । श्री + सिध्मादि- त्वात् लच् ।) लक्ष्मीवान् । इत्यमरः ॥ शोभा- युक्तश्च ॥