संस्कृत-शब्दकोशः

श्रीलता श्रीवत्सक

श्रीवत्स

वाचस्पत्यम्

श्रीवत्स ||‍ पु० वदति महत्त्वं वद—स श्रीयुक्तो वत्सः । १ व- क्षस्थे महत्त्वलक्षणश्वेतरोमावर्त्तविशेषे । स अस्त्यस्य अच् । २ विष्णौ हेमच० । ३ सुरङ्गाभेदे त्रिका०।


शब्दकल्पद्रुमः

श्रीवत्सः || पुं, (श्रीयुक्तं वत्सं वक्षो यस्य ।)
विष्णुः । विष्णुचिह्नविशेषः । स तु वक्षस्यशुक्लवर्ण- दक्षिणावर्त्तलोमावली । (यथा, रघुः । १० । १० । “प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् । कौस्तुभाख्यमपांसारं बिभाणं बृहतोरसा ॥”)
अर्हतां ध्वजः । इति हेमचन्द्रः ॥ सुरुङ्गाभेदः । इति त्रिकाण्डशेषः ॥



Correction: