शब्दकल्पद्रुमः
श्रीवत्साङ्कः || पुं, (श्रीवत्सः अङ्कश्चिह्नं यस्य ।) विष्णुः । इति हलायुधः ॥ (यथा, बृहत्सं- हितायाम् । ४३ । ३ । “लब्धवराः क्षीरोदं गत्वा ते तुष्टुवुः सुराः सेन्द्राः । श्रीवत्साङ्कं कौस्तुभमणिकिरणोद्भासितोर- स्कम् ॥”)