वाचस्पत्यम्
श्रीवास || पु० श्रियै वासयति वस—णिच्—अच् । सरलवृक्षरसे (टारपिन) । “श्रीवासः सरलः पूतिः कुन्दुरुर्ग्रन्थिपर्ण- कम् । सिह्लकः परमाभांसी देवदारु सुरा नखी । सर्वे ऽमी परमाऽलक्ष्मीरक्षोघ्ना ज्वरनाशनाः” राजव० । ५ त० । २ पद्मे ३ विष्णौ मेदि० ४ शिवे शब्दच० ।
शब्दकल्पद्रुमः
श्रीवासः || पुं, (श्रियं सरलवृक्षं वासयतीति । वस + णिच् + अच् ।)
सरलवृक्षरसः । टार- पिन् इति भाषा । तत्पर्य्यायः । पायसः २ वृक- धूपः ३ श्रीवेष्टः ४ सरलद्रवः ५ । इत्यमरः ॥ तैलपर्णी ६ श्रीपिष्टः ७ । इति जटाधरः ॥ श्रीवेशः ८ । इति शब्दरत्नावली ॥ अस्य गुणाः । “श्रीवासः सरलं पूतिः कुन्दुरुर्ग्रन्थिपर्णकम् । सिह्लकः परमा मांसी देवदारु मुरा नखम् । सर्व्वेऽमी परमा लक्ष्मी रक्षोघ्ना ज्वर- नाशनाः ॥” इति राजवल्लभः ॥ अन्यत श्रीवेष्टशब्दे द्रष्टव्यम् ॥ (श्रियो लक्ष्म्या वासः आश्रयस्थानम् ।)
पद्मम् । (यथा, राजेन्द्र कर्णपूरे । ४२ । “श्रीवासो यशसां पदं सुमनसामप्यास्पदं सम्पदां यत्रागच्छति गोचरं नयनयोः काश्मीरमीन- ध्वजः ॥”)
विष्णुः । इति मेदिनी ॥ शिवः । इति शब्द- रत्नावली ॥