संस्कृत-शब्दकोशः

श्रीविद्या श्रीवृक्षक

श्रीवृक्ष

वाचस्पत्यम्

श्रीवृक्ष ||‍ पु० श्रियः शोभायाः वृक्ष इव । १ अश्वस्य हृदयस्थे श्वोतरोमावर्त्तभेदे २ अश्वत्थवृक्षे हेमच० । श्रीनामकोवृक्षः शाक० । ३ विल्ववृक्षे “श्रीवृक्षे बोधयामि त्वाम्” ति० त० ।


शब्दकल्पद्रुमः

श्रीवृक्षः || पुं, (श्रीप्रदः श्रीप्रियो वा वृक्षः । शाक पार्थिवादिवत् सभासः ।)
अश्वत्थवृक्षः । इति हेमचन्द्रः ॥ विल्ववृक्षः । यथा, —
“इषे मास्यसिते पक्षे नवम्यामार्द्रयोगतः । श्रीवृक्षे बोधयामि त्वां यावत् पूजां करो- म्यहम् ॥” इति तिथ्यादितत्त्वधृतश्रीदुर्गाबोधनमन्त्रः ॥ (विष्णोर्वक्षस्थःलस्थशुभावर्त्तविशेषः । यथा, विष्णुपादादिकेशान्तवर्णनस्तोत्रे । २८ । “वक्षः श्रीवृक्ष-कान्तं मधुकरनिकरश्यामलं शार्ङ्गपाणेः संसाराध्वश्रमात्तैरुपवनमिव यत् सेवितं तत् प्रपद्ये ॥” अश्वस्य ह्वदावर्त्तः । इति माघटीकायां मल्लि- नाथः । ५ । ५६ ॥)



Correction: