संस्कृत-शब्दकोशः

श्रीवृक्षक श्रीश

श्रीवेष्ट

वाचस्पत्यम्

श्रीवेष्ट ||‍ पु० श्रियै वेष्ट्यतेऽसौ वेष्ट—कर्मणि घञ् । सरलवृक्ष- निर्य्यासे (तारपिन) राजनि० ।


शब्दकल्पद्रुमः

श्रीवेष्टः || पुं, (श्रियः सरलवृक्षस्य वेष्टः निर्य्यासः ।)
सरलवृक्षस्य निर्यासः । तत्पर्य्यायः । “श्रीवेष्टो वृक्षधूपश्च चितागन्धो रसायकः । श्रीवासः श्रीरसो वेष्टो लक्ष्मीवेष्टस्तु वेष्टकः ॥ वेष्टसारो रसावेष्टः क्षीरशीर्षः सुधूपकः । धूपाङ्गस्तिलपर्णश्च सरलाङ्गोऽपि षोडश ॥” तद्गुणाः । “श्रीवेष्टः कटुतिक्तश्च कषायः श्लेष्मपित्तजित् । योनिदोषरुजाजीर्णव्रणघ्नाध्मानदोषनुत् ॥” इति राजनिर्घण्टः ॥ * ॥
अपि च । “श्रीवासः सरलः श्रावः श्रीवेष्टो वृक्षधूपकः । श्रीवासो मधुरस्तिक्तः स्निग्धोष्णस्तुवरः सरः ॥ पित्तलावातमूर्द्धाक्षिस्वररोगकफापहः । रक्षोऽश्रीस्वे ददौर्गन्ध्ययूकाकण्डूव्रणप्रणुत् ॥” इति भावप्रकाशः ॥



Correction: