शब्दकल्पद्रुमः
श्रुतर्षिः || पुं, (श्रुतप्रधान ऋषिः ।) ऋषिविशेषः । सतु सुश्रुतादिः । इति त्रिकाण्डशेषः । यथा, — “संहिता ऋग्यजुःसाम्नां सहितास्तैः श्रुत- र्षिभिः । सामान्याद्वै कृताश्चैव दृश्यन्ते द्वापरे त्विह ॥” इति मात्स्ये १२० अध्यायः ॥