शब्दकल्पद्रुमः
श्रुतायुः || पुं, सूर्य्यवंशीयराजविशेषः । स तु कुशस्य चतुर्द्दशपुरुषः । यथा, — “नाभागस्याम्बरीषोऽभूत् सिन्धुद्वीपस्ततोऽभवत् ततः श्रुतायुः पुत्त्रोऽभूत ऋतुपालस्ततोऽभवत् ॥” इति मात्स्ये १३ अध्यायः ॥