संस्कृत-शब्दकोशः

श्रेयसी श्रेयांस

श्रेयस्

वाचस्पत्यम्

श्रेयस् ||‍ न० अतिशयेन प्रशस्यम् इयसु श्रादेशः । १ धर्मे २ मोक्षे अमरः । ३ शुभे न० ४ अतिप्रशस्ते त्रि० मेदि० स्त्रियां ङीप् । सा च ५ हरीतक्यां ६ पाठायां ७ गजपिप्पल्याम् अमरः ८ रास्नायां विश्वः । ९ शुभयुक्ते त्रि० अमरः ।


शब्दकल्पद्रुमः

श्रेयः || [स] क्ली, (इदमनयोरतिशयेन प्रशस्यम् । प्रशस्य + ईयसुन् । “प्रशस्यस्य श्रः ।” ५ । ३ । ६० । इति श्रः ।)
धर्म्मम् । मुक्तिः । इत्यमरः ॥ (चतुर्व्वर्ग एव श्रेयः । यथा, मनुः । २ । २२४ । “धर्म्मार्थावुच्यते श्रेयः कामार्थो धर्म्म एव च ॥ अर्थ एवेह वाश्रेयस्त्रिवर्ग इति तु स्थितिः ॥” “धर्म्मार्थकामात्मकः परप्सराविरुद्धस्त्रिवर्ग एव पुरुषार्थतया श्रेय इति विनिश्चयः । एवञ्च बुभुक्षून् प्रत्युपदेशो न मुमुक्षून् । मुमुक्षूणान्तु मोक्ष एव श्रेयः इति षष्ठे वक्ष्यते ।” इति तट्टीकायां कुल्लूकः ॥)
शुभम् । इति मेदिनी ॥ (यथा, रघुः । १ । ७९ । “प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥”)


शब्दकल्पद्रुमः

श्रेयान् || [स] त्रि, (अयमनयोरतिशयेन प्रशस्यः । प्रशस्य + इयसुन् । “प्रशस्यस्य श्रः ।” ५ । ३ । ६० । इति श्रः ।)
श्रेष्ठः । इत्यमरः ॥ (यथा, मनुः । १० । ११२ । “प्रतिग्रहाच्छिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते ॥” शुभयुक्तञ्च ॥



Correction: