वाचस्पत्यम्
श्रेष्ठ || पु० अतिशयेन प्रशस्यः इष्ठन् श्रादेशः । १ कुबेरे २ नृपे ३ विप्रे शब्दर० ४ विष्णौ विष्णुस० । ५ गोदुग्धे न० त्रिका० ६ अत्यन्तशस्ते त्रि० अमरः । ७ स्वलपद्मिन्यां स्त्री ८ मेदा- याञ्च राजनि० ।
शब्दकल्पद्रुमः
श्रेष्ठं || क्ली (अयमेषामतिशयेन प्रशस्यः । प्रशस्य + इष्ठन् । प्रशस्यस्य श्रः ५ । ३ । ६० । इति श्रः ।)
गोदुग्धम् । इति त्रिकाण्डशेषः ॥
शब्दकल्पद्रुमः
श्रेष्ठः || त्रि (प्रशस्य + इष्ठन् ।)
प्रशस्तः । वरः । (यथा, रामायणे । २ । १ । २० । “इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥”)
तत्पर्य्यायः । श्रेयान् २ पुष्कलः ३ सत्तमः ४ अतिशोभनः ५ । इत्यमरः ॥ मुख्यः ६ वरेण्यः ७ प्रमुखः ८ अग्रः ९ अग्रहरः १० उत्तमः ११ प्रग्रहः १२ अनुत्तमः १३ अग्रीयः १४ प्रवेकः १५ अग्र्यः १६ अग्रियः १७ । इति शब्दरत्नावली ॥ अनवरः १८ अग्रिमः १९ प्राग्रः २० प्राग्रहरः २१ प्रवर्हः २२ । इति जटाधरः ॥ वृद्धः । ज्येष्ठः । इति शब्दरत्नावली ॥
शब्दकल्पद्रुमः
श्रेष्ठः || पुं, (प्रशस्य + इष्ठन् ।)
कुबेरः । नृपः । द्विजः । इति शब्दरत्नावली ॥ विष्णुः । इति तस्य सहस्रनामस्तोत्रम् ॥ (महादेवः । यथा, महाभारते तस्य सहस्रनामस्तोत्रे । १३ । १७ । ४० । “विश्वरूपः स्वयं श्रेष्ठो वलवीरो बलो गणः ॥”)