वाचस्पत्यम्
श्रेष्ठकाष्ठ || पु० श्रेष्ठ काष्ठमस्य । शाकवृक्षे (शेगुण) राजनि० ।
शब्दकल्पद्रुमः
श्रेष्ठकाष्ठः || पुं, श्रेष्ठं काष्ठमस्य ।)
शाकवृक्षः । इति राजनिर्घण्टः ॥ श्रेष्ठा, स्त्री, (इयमासामतिशयेन प्रशस्या । इष्ठन् । टाप् ।)
स्थलपद्मिनी । इति राजनिर्घण्टः ॥ मेदा । इति केचित् ॥ उत्तमा नारी च ॥