वाचस्पत्यम्
श्रेष्ठिन् || पु० श्रेष्ठं धनादिकमस्त्यस्य इति । १ शिल्पिवणिजां श्रेष्ठे जटा० “स हि श्रेष्ठिचत्वरे प्रतिवसतीति” मृच्छ- कटिकटीका ।
शब्दकल्पद्रुमः
श्रेष्ठी || [न्] पुं, (श्रेष्ठं धनादिकमस्त्यस्येति । इनिः ।)
कुलोत्तमशिल्पी । यथा, —
“कुलीकस्तु कुलीश्रेष्ठी कुलश्रेष्ठिनि शिल्पि- नाम् ॥” इति जटाधरः ॥ (यथा, बृहत्संहितायाम् । २९ । १० । “श्रेष्ठी सुवर्णपुष्पैः पद्मैर्विप्राः पुरोहिताः कुमुदैः ॥”)