वाचस्पत्यम्
श्रोणिफलक || न० श्रोणिः फलकमिव । १ प्रशस्यकटौ ६ त० । २ कटिपार्श्वे ।
शब्दकल्पद्रुमः
श्रोणिफलकं || क्ली (श्रोणिफल + स्वार्थे कन् ।)
कटिपार्श्वः । तत्पर्य्यायः । कटः २ । इत्य- मरः ॥ फलकं चर्म्म तदाकारत्वात् श्रोणिः फलकमिव श्रोणिफलकम् । कट्यते आव्रियते कटः कटे वर्षावरणयोः अल् । कटिः । इति केचित् । इति भरतः