वाचस्पत्यम्
श्रौत्र || न० श्रोत्र—स्वार्थे अण् । १ कर्णे । श्रोत्रियस्य भावः कर्म वा अण् यलोपः । वैदिकस्य भावे “श्रौत्रार्हन्तीचणै- र्गुण्यैः” सिद्धान्तकौ० ।
शब्दकल्पद्रुमः
श्रौत्रं || क्ली श्रोत्रमेव । प्रज्ञादित्वादण् ।)
कर्णः । (श्रोत्रियस्य भावः कर्म्म वा । “हायनान्तयुवा- दिभ्योऽण् ।” ५ । १ । १३० । इत्यण् । “श्रोत्रि- यस्य यलोपश्च वाच्यः ।” इति यलोपः ।)
श्रोत्रियकर्म्म । तत्पर्य्यायः । श्रौत्रियता २ । इति शब्दरत्नावली ॥ (श्रोत्रस्य भावः कर्म्म वा । अण् ।)
श्रोत्रकर्म्म च ॥ (श्रोत्राणां समूहः “भिक्षादिभ्योऽण् ।” ४ । २ । ३८ । इति अण् ॥)