संस्कृत-शब्दकोशः

श्लक श्लक्ष्णक

श्लक्ष्ण

वाचस्पत्यम्

श्लक्ष्ण ||‍ त्रि० श्लिष—क्स्न नि० । १ अल्पे अमरः २ चिक्कणे । संज्ञायां कन् । ३ मनोहरे उणा० ४ पूगे राजनि० ।


शब्दकल्पद्रुमः

श्लक्ष्णं || त्रि (श्लिष आलिङ्गने + “श्लिषेरच्चोप- धायाः ।” उणा० ३ । १९ । इति क्स्नः अकार- श्चोपधायाः ।)
अल्पम् । इत्यमरः ॥ मनोहरम् । इत्युणादिकोषः ॥ (यथा, मनुः । २ । १५९ । “अहिंसयैव भूतानां कार्य्यं श्रेयोऽनुशासनम् वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्म्म- मिच्छता ॥”)



Correction: