वाचस्पत्यम्
श्लाघ || आत्मगुणाविष्करणे भ्वा० आ० अक० सेट् ऋदित् चङि न ह्रस्वः । श्लाघते अश्लाघिष्ट ।
शब्दकल्पद्रुमः
श्लाघ || ऋ ङ कत्थने । इति कविकल्पद्रुमः ॥ (भ्वा० आत्म०-सक०-सेट् ।)
अन्तःस्थतृतीययुक्तः तालव्यादिः । कत्थनं प्रशंसा । ऋ, अश्लाघत् । ङ, श्लाघते गुणिनं गुणी । इति दुर्गादामः ॥ श्लाधा, स्त्री, (श्लाघ कत्थने + अः । टाप् ।)
प्रशंमा । (यथा, रघुः । १ । २२ । “ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्य्ययः । गुणा गुणानुवन्धित्वात् तस्य सप्रसवा इव ॥”)
परिचर्य्या । अभिलासः । इति मेदिनी ॥