वाचस्पत्यम्
श्लाघ्य || त्रि० श्लाघ—ण्यत् । प्रशस्ये “श्लाघ्यस्त्वन्मृत्युरावयी- रिति” देवीमा० ।
शब्दकल्पद्रुमः
श्लाघ्यः || त्रि (श्लाघ + ण्यत् ।)
श्लाघनीयः । प्रशंस्यः । यथा, —
“मौरवितास्त्वाचार्य्यमिश्राः श्लाघ्यास्तत्रभवन्- मुखाः ॥” इति त्रिकाण्डशेषः ॥ (यथा, रघुः । ११ । ८६ । “आहितो जयविपर्य्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ॥”)