संस्कृत-शब्दकोशः

श्लिक्यु श्लिषा

श्लिष

वाचस्पत्यम्

श्लिष ||‍ आलिङ्गने संसर्गे च सक० दि० अनिट् । श्लिष्यति ऌदित् अश्लिषत् । आलिङ्गने तु अश्लिक्षत् ।


वाचस्पत्यम्

श्लिष ||‍ दाहे भ्वा० पर० सक० सेट् उदित् क्त्वा वेट् । श्लेषति अ श्लेषीत् ।


वाचस्पत्यम्

श्लिष ||‍ श्लेषणै चु० उभ० सक० सेट् । श्लेषयति ते अशिश्लेषत् त ।


शब्दकल्पद्रुमः

श्लिष || उ दाहे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर० सक०-सेट् । क्त्वावेट् ।)
अन्तःस्थतृतीययुक्तः । उ, श्लेषित्वा श्लिष्ट्वा । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

श्लिष || औ य ऌ ञि श्लषे । इति कविकल्पद्रुमः ॥ (दिवा०-पर०-सक०-अनिट् ।)
अन्तःस्थतृतीय- युक्तादिः । औ श्लेष्टा । य, श्लिष्यति । ऌ, अश्लिषत् । आलिङ्गने तु अश्लिक्षत् । ञि श्लिष्टो- ऽस्ति । श्लेष आलिङ्गनम् । तच्च बाहुभ्यामेव रूढम् । श्लिष्यति कामपीति जयदेवः । प्राप्ता- वप्ययम् । श्लिष्यति वृक्षं लता । इति दुर्गा- दासः ॥


शब्दकल्पद्रुमः

श्लिष || क श्लेषे । इति कविकल्पद्रुमः ॥ (चुरा०-पर० सक०-सेट् ।)
अन्तःस्थतृतीययुक्तः । क, श्लेष- यति । इति दुर्गादासः ॥



Correction: