संस्कृत-शब्दकोशः

श्लिष्ट श्लीपदप्रभव

श्लीपद

वाचस्पत्यम्

श्लीपद ||‍ न० श्रीयुक्तं वृद्धियुक्तं पदमस्मात् पृषो० । (गोद) १ रोगभेदे ६ ब० । २ तद्रोगयुक्ते त्रि० । शिलीपदशब्दे ५१११ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

श्लीपदं || क्ली (श्रीयुक्तं वृद्धिमत् पदमत्रेति । पृषो दरादित्वात् साधु ।)
स्फीतपादादि । गोद इति भाषा । तत्पर्य्याय । पादवल्भीकम् २ । इति हेमचन्द्रः ॥ (यथा, आर्य्यासप्तशत्याम् । ४८५ । “यन्नोपकारकं यन्न भूषणं यत् प्रकोपमातनुते । गुरुणापि तेन कार्य्यं पदेन किं श्लीपदेनेव ॥”)
अथ श्लीपदाधिकारः । तत्र श्लीपदस्य विप्रकृष्टं निदानमाह । “पुराणोदकभूयिष्ठाः सर्व्वर्त्तुषु च शीतलाः । ये देशास्तेषु जायन्ते श्लोपदानि विशेषतः ॥” विशेषत इति वचनेनान्यत्रापि श्लीपदं भवति इति बोध्यते ॥ * ॥
सामान्यं लक्षणमाह ॥ “यः सज्वरो वंक्षणजो भृशार्त्तिः शोथो नृणां पादगतः क्रमेण । तत् श्लीपदं स्यात् करनेत्रकर्ण- शिश्नोष्ठनासास्वपि केचिदाहुः ॥” तत् त्रिविधम् । वातिकं पैत्तिकं श्लैष्मिकञ्चेति । तेषां लक्षणमाह । “वातजं कृष्णरूक्षं हि स्फुटितं तीव्रवेदनम् । अनिमित्तरुजं चास्य बहुशो ज्वर एव च ॥ पित्तजं पीतसङ्काशं दाहज्वरयुतं भृशम् । श्लैष्मिकन्तु भवेत् स्निग्धं तथा पाण्डुगुरु स्थिरम् ॥ त्रीस्यप्येतानि जानीयात् श्लीपदानि कफो- च्छ्रयात् । मुरुत्वञ्च महत्त्वञ्च यस्मान्नास्ति विना कफात् ॥” असाध्यमाह । “वल्मीकमिव संजातं कण्टकैरुपचीयते । सर्व्वात्मकं महत्त्वन्तु वर्ज्जनीयं विशेषतः ॥ यत् श्लेष्मलाहारविहारजातै- र्जातं तथा भूरिकफस्य पुंसः । सास्रावमप्यत्र तु सर्व्वलिङ्गं सकण्डुकं वापि विवर्ज्जनीयम् ॥” * ॥
श्लीपदस्य चिकित्सा । “लङ्घनालेपनस्वेदरेचनै रक्तमोक्षणैः । प्रायः श्लेष्महरैरुष्णैः श्लीपदं समुपाचरेत् ॥ १ ॥ सिद्धार्थशोभाञ्जनदेवदारु- विश्वौषधैर्मूत्रयुतैः प्रलिम्पेत् । पुनर्नवानागरसर्षपाणां कल्केन वा काञ्जिकमिश्रितेन ॥ श्लीपदमिति शेषः ॥ २ ॥ “धत्तूरैण्डनिर्गुण्डीवर्षाभूशिग्रुसर्षपैः । प्रलेपः श्लीपदं हन्ति चिरोत्थमपि दारुणम् ॥ ३ ॥ असाध्यमपि यात्यन्तं श्लीपदं चिरकालजम् । मूलेन सहचरायास्तालमिश्रेण लेपनात् ॥ तालस्य फलरसो ग्राह्यः ॥ ४ ॥ सप्तलास्थूलपत्राणां कल्कं तप्तेन वारिणा । संमृष्टं लवणोपेतं सेवितं श्लीपदं हरेत् ॥ ५ ॥ शाखोटवल्कलक्वाथं गोमूत्रेण युतं पिबेत् । श्लीपदानां विनाशाय मेदोदोषनिवृत्तये ॥ ६ ॥ रजनीं गुडसंयुक्तां गोमूत्रेण पिबेन्नरः । वर्षोत्थं श्लीपदं हन्ति दद्रुकुष्ठं विशेषतः ॥ ७ ॥ वर्षाभूत्रिफलाचूर्णं पिप्पल्या सह योजितम् । सक्षौद्रं श्लीपदं लिह्यात् चिरोत्थं श्लीपदं जयेत् ॥ गन्धर्व्वतैलसिद्धां हरीतकीं गोऽम्बुना पिबति । श्लीपदविबन्धमुक्तो भवत्यसौ सप्तरात्रेण ॥” गन्धर्व्वतैलं एरण्डतैलम् । गोऽम्बुना गोमूत्रेण ॥ ९ इति श्लीपदाधिकारः । इति भावप्रकाशः ॥ * ॥
तस्य कर्म्मविपाको यथा । गोतमोऽपि क्वचिद्- विशेषमाह । अनृतवागुल्वणो मुहुर्मुहुः संलग्न- वाक् जलोदरो दारत्यागी कूटसाक्षी श्लीपदी ॥ इति मिताक्षरायां प्रायश्चित्ताध्यायः ॥ कूटमा- क्ष्यस्य सूरापानसमत्वे नानुपातकत्वात् तत्कर्म्म- जन्यश्लीपदरोगयुक्तेन पराकव्रतं कर्त्तव्यम् । इति मन्वादिमतम् ॥



Correction: