वाचस्पत्यम्
श्लेष्मण || पु० श्लेष्माऽस्त्यस्य न । कफविशिष्टे अमरः ।
शब्दकल्पद्रुमः
श्लेष्मणः || त्रि (श्लेष्मा अस्त्यस्येति श्लेष्मन् + “लोमादिपामादिपिच्छादिभ्यः शनेलचः ।” ५ २ । १०० । इति नः ।)
कफी । इत्यमरः ॥ श्लेष्मणा, स्त्री, (श्लेष्मन् + पामादित्वात् नः । टाप् ।)
वृक्षविशेषः । यथा, —
“गुरुस्कन्धस्तर्पणी च श्लेष्मणा च वृषापि च ।” इति शब्दमाला ॥