श्वपच
श्वपाक
श्वपच्
शब्दकल्पद्रुमः
श्वपक् || [च] पुं, (श्वानं पचतीति । पच + क्विप् । चण्डालः । यथा । निषादः । श्वपचः श्वपक् । इति भरतधृतवोपालितः ॥ (यथा, मनुः । ३ । ९२ “शुनाञ्च पतितानाञ्च श्वपचां पापरोगिणाम् । वायसानां कृमीणाञ्च शनकैर्निर्व्वपेत् भुवि ॥”)