संस्कृत-शब्दकोशः

श्वभीरु श्वयथु

श्वभ्र

वाचस्पत्यम्

श्वभ्र ||‍ गतौ छिद्रकरणे सक० दीःस्थ्ये अक० चु० उभ० सेट् । श्वभ्रयति ते अशश्वभ्रत् त ।


वाचस्पत्यम्

श्वभ्र ||‍ न० श्वभ्र—अच् । छिद्रे अमरः ।


शब्दकल्पद्रुमः

श्वभ्र || क विले । गती । तङ्के । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-तङ्के अक०-सेट् ।)
विलं रन्ध्रकरणम् । क, श्वभ्रयति भाण्डं बालकः । तङ्क इति तकि दौःस्थ्ये इत्यस्य रूपम् । श्वभ्र- यति दीनः दुःखेन जीवतीत्यर्थः । तङ्कस्थाने तन्त्र इत्यपपाठः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

श्वभ्रं || क्ली (श्वभ्र्यते यदिति । श्वभ्र विले + कर्म्मणि घञ् ।)
छिद्रम् । इत्यमरः ॥ (यथा, मार्कण्डेये । ४३ । २९ । “पततो यस्य वै गर्त्ते स्वप्ने द्वारं पिधीयते । न चोत्तिष्ठति यः श्वभ्रात् तदन्तं तस्य जीवि- तम् ॥”)



Correction: